(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

महाभारत का अरयण्क पर्व – Mahabharat Aranyak Parv in Hindi


॥ श्रीः ॥
3.121. अध्यायः 121
Mahabharata - Vana Parva - Chapter Topics
सात्यकिना पाणअडवानपेक्षणेन स्वैरेव धार्तराष्ट्रादिहननपूर्वकं पाण्डवानामावनवाससमापनमभिमन्यो राज्येऽभिषच नोक्तिः ॥ 1 ॥ कृष्णेन सात्यकिंप्रतिपाण्डवानां परबाहुबलैकानुपजीवित्वादिगुणकथनपूर्वकं तन्निपेधनम् ॥ 2 ॥
Mahabharata - Vana Parva - Chapter Text

सात्यकिरुवाच। 3-121-0x(2096)(20625)
न राम कालः परिदेवनाय
यदुत्तरं त्वत्र तदेव सर्वे।
समाचरामो ह्यनतीतकालं
युधिष्ठिरो यद्यपि नाह किंचित् ॥ 3-121-1(20626)
ये नाथवन्तोऽद्य भवन्ति लोके
ते नात्मना कर्म समारन्ते।
तेषां तु कार्येषु भवन्ति नाथाः
शैब्यादयो राम यथा ययातेः ॥ 3-121-2(20627)
येषां तथा राम समारभन्ते
कार्याणि नाथाः स्वमतेन लोके।
रते नाथवन्तः पुरुषप्रवीरा
नानाथवत्कृच्छ्रमवाप्नुवन्ति ॥ 3-121-3(20628)
कस्मादिमौ रामजनार्दनौ च
प्रद्युम्नसाम्बौ च मया समेतौ।
वसन्त्यरण्ये सह सोदरीयै-
स्त्रैलोक्यनाथानभिगम्य पार्थाः ॥ 3-121-4(20629)
निर्यातु साध्यद्य दशार्हसेना
प्रभूतनानायुधचित्रवर्मा।
यमक्षयं गच्छतु धार्तराष्ट्रः
सबान्धवो वृष्णिबलाभिभूतः ॥ 3-121-5(20630)
त्वं ह्येव कोपात्पृथिवीमपीमां
संवेष्टयेस्तिष्ठतु शार्ह्गधन्वा।
स धार्तराष्ट्रं जहि सानुबन्धं
वृत्रं यथा देवपतिर्महेन्द्रः ॥ 3-121-6(20631)
भ्राता च मे यः स सखा गुरुश्च
जनार्दनस्यात्मसमश्च पार्थः।
तदर्थमेको हि य उद्यमन्वै
करोति कर्णोऽस्त्रमवारणीयम् ॥ 3-121-7(20632)
[यदर्थमैच्छन्मनुजाः सुपुत्रं
शिष्यं गुरुं चाप्रतिकूलवादम्।
यदर्थमभ्युद्यतमुत्तमं त-
त्करोति कर्माग्र्यमपारणीयम् ॥] 3-121-8(20633)
तस्यास्त्रवर्षाण्यहमुत्तमास्त्रै-
र्विहत्य सर्वाणइ रणेऽभिभूय।
कायाच्छिरः सर्पविषाग्निकल्पैः
शरोत्तमैरुन्मथिताऽस्मि राम ॥ 3-121-9(20634)
खङ्गेन चाहं निशितेन सङ्ख्ये
कायाच्छिरस्तस्य बलात्प्रमत्य।
ततोऽस् सर्वाननुगान्हनिष्ये
दुर्योधनं चापि कुरूश्च सर्वान् ॥ 3-121-10(20635)
आत्तायुधं मामिह रौहिणएय
पश्यन्तु भैमा युधि जातहर्षाः।
निघ्नन्तमेकं कुरुयोधमुख्या-
नग्निं महाकक्षमिवान्तकाले ॥ 3-121-11(20636)
प्रद्युम्नमुक्तान्निशितान्न शक्ताः।
सोढुं कृपद्रोणविकर्णकर्णाः।
जानासि पीर्यं च तवात्मजस्य
कार्ष्णिर्भवत्येव यथा रणस्थः ॥ 3-121-12(20637)
साम्बः ससूतं सरथं भुजाभ्यां
दुःशासनं शास्तु बलात्प्रमथ्य।
न विद्यतेजाम्बवतीसुतस्य
रणेऽविषह्यं हि रणोत्कटस्य ॥ 3-121-13(20638)
एतेन बालेन हि शम्बरस्य
दैत्यस्य सैन्यं सहसा प्रणुन्नम्।
`हतः स पापो युधि केवलेन
युद्धेऽद्वितीयो हरितुल्यवीर्यः' ॥ 3-121-14(20639)
वृत्तोरुरत्यायतपीनबाहु-
रेतेन सङ्ख्ये निहतोऽश्वचक्रः।
को नाम साम्बस्य महारथस्य
रणे समक्षं रथमभ्युदीयात् ॥ 3-121-15(20640)
यथा प्रविश्यान्तरमन्तकस्य
काले मनुष्यो न विनिष्क्रमेत।
तथा प्रविश्यान्तरमस्य सङ्ख्ये
को नाम जीवन्पुनराव्रजेच्च ॥ 3-121-16(20641)
द्रोणं कच भीष्मं च महारथौ तौ
सुतैर्वृतं चाप्यथ सोमदत्तम्।
सर्वाणइ सैन्यानि च वासुदेवः
प्रधक्ष्यते सायकवह्निजालैः ॥ 3-121-17(20642)
किंनाम लोकेषु विषह्ममस्ति-
कृष्णस्य सर्वेषु सदेवकेषु।
आत्तायुधस्योत्तमबाणपाणे-
श्चक्रायुधस्याप्रतिमस्य युद्धे ॥ 3-121-18(20643)
ततो निरुद्धोऽप्यसिचर्मपाणि-
र्महीमिमां धार्तराष्ट्रैर्विसंज्ञैः।
हृतोत्तमाङ्गैर्निहतैः करोतु
कीर्णाङ्कुशैर्वेदिमिवाध्वरेषु ॥ 3-121-19(20644)
गदोल्मुकौ बाहुकभानुनीथाः
शूरश्र सङ्ख्ये निशठः कुमारः।
रणोत्कटौ सारणचारुदेष्णौ
कुलोचितं विप्रथयन्तु कर्म ॥ 3-121-20(20645)
सवृष्णिभोजान्धकयोधमुख्या
समागता सात्वतशूरसेना।
हत्वा रणे तान्धृतराष्ट्रपुत्रा-
न्लोके यशः स्फीतमुपाकरोतु ॥ 3-121-21(20646)
ततोऽभिमन्युः पृथिवीं प्रशास्तु
यावद्व्रतं धर्मभृतांवरिष्ठः।
युधिष्ठिरः पारयते महात्मा
द्यूते यथोक्तं कुरुसत्तमेन ॥ 3-121-22(20647)
अस्मत्प्रमुक्तैर्विशिखैर्जितारि-
स्ततो महीं भोक्ष्यति धर्मराजः।
निर्धार्तराष्ट्रां हतसूतपुत्रा-
मेतद्धि नः कृत्यतमं यशस्यम् ॥ 3-121-23(20648)
वासुदेव उवाच। 3-121-24x(2097)
असंशयं माधव सत्यमेत-
द्गृह्णीम ते वाक्यमदीनसत्व।
स्वाभ्यां भुजाभ्यामजितां तु भूमिं
नेच्छेत्कुरूणामृषभः कथंचित् ॥ 3-121-24(20649)
न ह्येष कामान्न भयान्न लोभा-
द्युधिष्ठिरो जातु जह्यात्स्वधर्मम्।
भीमार्जुनौ चातिरथौ यमौ च
तथैव कृष्णा द्रुपदात्मजेयम् ॥ 3-121-25(20650)
उभौ हि युद्धेऽप्रतिमौ पृथिव्यां
वृकोदरश्चैव धनंजयश्च।
कस्मान्न कृत्स्नां पृथिवीं प्रशासे-
न्माद्रीसुताभ्यां च पुरस्कृतोऽयम् ॥ 3-121-26(20651)
यदा तु पाञ्चालपतिर्महात्मा
सकेकयश्चेदिपतिर्वयं च।
युध्येम विक्रम्य रणे समेता-
स्तदैव सर्वे रिपवो हि न स्युः ॥ 3-121-27(20652)
युधिष्ठिर उवाच। 3-121-28x(2098)
नेदं चित्रं माधव यद्ब्रवीषि
सत्यं तु मे रक्ष्यतमं न राज्यम्।
कृष्णस्तु मां वेद यथावदेकः
कृष्णं च वेदाहमथो यथावत् ॥ 3-121-28(20653)
यदैव कालं पुरुषप्रवीरो
वेत्स्यत्ययं माधव विक्रमस्य।
तदा रणे त्वं च शिनिप्रवीर
सुयोधनं जेष्यसि केशवश्च ॥ 3-121-29(20654)
प्रतिप्रयान्त्वद्य दशार्हवीरा
दृष्टोस्मि नाथैर्नरलोकनाथैः।
धर्मेऽप्रमादं कुरुताप्रमेया
द्रष्टाऽस्मि भूयः सुखिनः समेतान् ॥ 3-121-30(20655)
वैशम्पायन उवाच। 3-121-31x(2099)
तेऽन्योन्यमामन्त्र्य तथाऽभिवाद्य
वृद्धान्परिष्वज्य शिशूंश्च सर्वान्।
यदुप्रवीराः स्वगृहाणि जग्मु-
स्ते चापि तीर्थान्यमुसंविचेरुः ॥ 3-121-31(20656)
विसृज्य वृष्णीननु धर्मराजौ
विदर्भराजोपचितां सुतीर्थाम्।
जगाम पुण्यां सरितं पयोष्णीं
सभ्रातृभृत्यः सह लोमशेन ॥ 3-121-32(20657)
सुतेन सोमेन विमिश्रतोयां
पयः पयोष्णीं प्रति सोध्युवास।
द्विजातिमुख्यैर्मुदितैर्महात्मा
संस्तूयमानः स्तुतिभिर्वराभिः ॥ 3-121-33(20658)

इति श्रीमन्महाभारते अरण्यपर्वणि तीर्तयात्रापर्वणि एकविंशत्यधिकशततमोऽध्यायः ॥ 121 ॥

Mahabharata - Vana Parva - Chapter Footnotes
3-121-2 शैव्यादय इति स्वार्थे ष्यञ् ॥ 3-121-7 स पार्थोपि तिष्ठत्विति पूर्वेणान्वयः ॥ 3-121-8 यदर्थं शत्रुवधार्थम्। तत् सुपुत्रादिकम्। अस्माकमस्तीति शेषः ॥ 3-121-11 भैमा भीमकर्मकर्तारो भीमवंशजा वा ॥ 3-121-14 एतेन प्रद्युम्नेन ॥ 3-121-33 सुतेन अभिषुतेन। यज्ञे सोमपानतुल्यं तज्जलपानमित्यर्थः। पयोष्णीं प्रति पयोष्ण्यां पयोमात्रमध्युवासं भक्षितवान् ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.